वैशम्पायन उवाच || 001
आगम्य हास्तिनपुरादुपप्लव्यमरिन्दमः | 001a
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् || 001c
सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः | 002a
स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह || 002c
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा | 003a
पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति || 003c
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः | 004a
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् || 004c
युधिष्ठिर उवाच || 005
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः | 005a
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि || 005c
वासुदेव उवाच || 006
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः | 006a
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः || 006c
युधिष्ठिर उवाच || 007
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः | 007a
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् | 007c
आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् || 007e
पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः | 008a
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् || 008c
किं च सर्वे नृपतयः सभायां ये समासते | 009a
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन || 009c
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः | 010a
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः || 010c
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव | 011a
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो || 011c
यथा च नाभिपद्येत कालस्तात तथा कुरु | 012a
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः || 012c
वासुदेव उवाच || 013
शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः | 013a
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे || 013c
मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः | 014a
अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् || 014c
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते | 015a
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु || 015c
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः | 016a
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः || 016c
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः | 017a
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः || 017c
न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः | 018a
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् || 018c
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च | 019a
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव | 019c
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् || 019e
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः | 020a
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः || 020c
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम् | 021a
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः || 021c
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् | 022a
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् || 022c
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् | 023a
स हि रामभयादेभिर्नागरैर्विप्रवासितः | 023c
दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत || 023e
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः | 024a
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः || 024c
प्रजा ऊचुः || 025
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः | 025a
ईतयो नुद भद्रं ते शन्तनोः कुलवर्धन || 025c
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः | 026a
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि || 026c
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय | 027a
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु || 027c
भीष्म उवाच || 028
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः | 028a
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा || 028c
ततः पौरा महाराज माता काली च मे शुभा | 029a
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः | 029c
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् || 029e
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति | 030a
स त्वमस्मद्धितार्थं वै राजा भव महामते || 030c
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः | 031a
तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् | 031c
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः || 031e
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् || 032a
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् | 032c
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः || 032e
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय | 033a
अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले || 033c
एवं तामनुनीयाहं मातरं जनमेव च | 034a
अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् || 034c
सह मात्रा महाराज प्रसाद्य तमृषिं तदा | 035a
अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः || 035c
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम | 035e
अन्धः करणहीनेति न वै राजा पिता तव || 036a
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः | 036c
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः || 037a
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् | 037c
मयि जीवति राज्यं कः सम्प्रशासेत्पुमानिह || 038a
मावमंस्था वचो मह्यं शममिच्छामि वः सदा | 038c
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव || 039a
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च || 039c
श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम | 040a
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा || 040c