वैशम्पायन उवाच || 001
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् | 001a
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् || 001c
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु | 002a
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा || 002c
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना | 003a
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा || 003c
कर्ण उवाच || 004
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया | 004a
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव || 004c
अकरोन्मयि यत्पापं भवती सुमहात्ययम् | 005a
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् || 005c
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् | 006a
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् || 006c
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम | 007a
हीनसंस्कारसमयमद्य मां समचूचुदः || 007c
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया | 008a
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी || 008c
कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात् | 009a
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् || 009c
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः | 010a
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति || 010c
सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् | 011a
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् || 011c
उपनह्य परैर्वैरं ये मां नित्यमुपासते | 012a
नमस्कुर्वन्ति च सदा वसवो वासवं यथा || 012c
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् | 013a
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् || 013c
मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् | 014a
अपारे पारकामा ये त्यजेयं तानहं कथम् || 014c
अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् | 015a
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता || 015c
कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते | 016a
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः || 016c
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् | 017a
नैवायं न परो लोको विद्यते पापकर्मणाम् || 017c
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः | 018a
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे || 018c
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् | 019a
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः || 019c
न तु तेऽयं समारम्भो मयि मोघो भविष्यति | 020a
वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान् | 020c
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते || 020e
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले | 021a
अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात्फलं मया | 021c
यशसा चापि युज्येयं निहतः सव्यसाचिना || 021e
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि | 022a
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि || 022c
वैशम्पायन उवाच || 023
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती | 023a
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् || 023c
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः | 024a
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् || 024c
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन | 025a
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् || 025c
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् | 026a
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् || 026c