कर्ण उवाच || 001
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये | 001a
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते || 001c
कुन्त्युवाच || 002
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता | 002a
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः || 002c
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः | 003a
कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक || 003c
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः | 004a
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् || 004c
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः | 005a
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे || 005c
स त्वं भ्रातॄनसम्बुद्ध्वा मोहाद्यदुपसेवसे | 006a
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः || 006c
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये | 007a
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी || 007c
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः | 008a
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् || 008c
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् | 009a
सौभ्रात्रेण तदालक्ष्य सन्नमन्तामसाधवः || 009c
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ | 010a
असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः || 010c
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः | 011a
वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः || 011c
उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु | 012a
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् || 012c