वैशम्पायन उवाच || 001
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते | 001a
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् || 001c
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे | 002a
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः || 002c
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः | 003a
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि || 003c
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः | 004a
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा || 004c
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति | 005a
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते || 005c
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च | 006a
सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते || 006c
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् | 007a
येषां तेषामयं धर्मः सानुबन्धो भविष्यति || 007c
ह्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् | 008a
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः || 008c
ततः कुरूणामनयो भविता वीरनाशनः | 009a
चिन्तयन्न लभे निद्रामहःसु च निशासु च || 009c
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् | 010a
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह || 010c
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः | 011a
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः || 011c
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः | 012a
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् || 012c
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् | 013a
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः || 013c
पितामहः शान्तनव आचार्यश्च युधां पतिः | 014a
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम || 014c
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् | 015a
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः || 015c
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः | 016a
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् || 016c
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः | 017a
कर्णः सदा पाण्डवानां तन्मे दहति साम्प्रतम् || 017c
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति | 018a
प्रसादयितुमासाद्य दर्शयन्ती यथातथम् || 018c
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ | 019a
आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि || 019c
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता | 020a
चिन्तयन्ती बहुविधं हृदयेन विदूयता || 020c
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् | 021a
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः || 021c
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा | 022a
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी || 022c
कथं नु सुकृतं मे स्यान्नापराधवती कथम् | 023a
भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च || 023c
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा | 024a
कन्या सती देवमर्कमासादयमहं ततः || 024c
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः | 025a
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा || 025c
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् | 026a
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति || 026c
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः | 027a
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् || 027c
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः | 028a
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी || 028c
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि | 029a
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती || 029c
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः | 030a
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः | 030c
यथान्यायं महातेजा मानी धर्मभृतां वरः || 030e