सञ्जय उवाच || 001
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् | 001a
अब्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् | 001c
जानन्मां किं महाबाहो सम्मोहयितुमिच्छसि || 001e
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः | 002a
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा | 002c
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् || 002e
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् | 003a
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् || 003c
राजानो राजपुत्राश्च दुर्योधनवशानुगाः | 004a
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् || 004c
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन | 005a
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः || 005c
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे | 006a
शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः || 006c
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः | 007a
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् || 007c
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन | 008a
अनुराधां प्रार्थयते मैत्रं संशमयन्निव || 008c
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् | 009a
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः || 009c
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति | 010a
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः || 010c
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः | 011a
पानीयं यवसं चापि नाभिनन्दन्ति माधव || 011c
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् | 012a
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् || 012c
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते | 013a
वाजिनां वारणानां च मनुष्याणां च केशव || 013c
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन | 014a
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः || 014c
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते | 015a
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् || 015c
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव | 016a
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् || 016c
मयूराः पुष्पशकुना हंसाः सारसचातकाः | 017a
जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् || 017c
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः | 018a
मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् || 018c
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः | 019a
अनाहताः पाण्डवानां नदन्ति पटहाः किल || 019c
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा | 020a
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् || 020c
मांसशोणितवर्षं च वृष्टं देवेन माधव | 021a
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् | 021c
सप्राकारं सपरिखं सवप्रं चारुतोरणम् || 021e
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति | 022a
उदयास्तमये सन्ध्ये वेदयानो महद्भयम् | 022c
एका सृग्वाशते घोरं तत्पराभवलक्षणम् || 022e
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः | 023a
सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् || 023c
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन | 024a
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम || 024c
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा | 025a
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन || 025c
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव | 026a
महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे || 026c
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः | 027a
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत || 027c
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः | 028a
आसनानि च शुभ्राणि सर्वेषामुपलक्षये || 028c
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला | 029a
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन || 029c
अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः | 030a
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् || 030c
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् | 031a
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् || 031c
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः | 032a
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् || 032c
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे | 033a
विदितं मे हृषीकेश यतो धर्मस्ततो जयः || 033c
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः | 034a
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् || 034c
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः | 035a
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् || 035c
नकुलः सहदेवश्च सात्यकिश्च महारथः | 036a
शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः || 036c
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् | 037a
त्रय एते महामात्राः पाण्डुरच्छत्रवाससः || 037c
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन | 038a
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव || 038c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः | 039a
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः || 039c
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन | 040a
मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो || 040c
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन | 041a
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् || 041c
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् | 042a
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः || 042c
कृष्ण उवाच || 043
उपस्थितविनाशेयं नूनमद्य वसुन्धरा | 043a
तथा हि मे वचः कर्ण नोपैति हृदयं तव || 043c
सर्वेषां तात भूतानां विनाशे समुपस्थिते | 044a
अनयो नयसङ्काशो हृदयान्नापसर्पति || 044c
कर्ण उवाच || 045
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् | 045a
समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् || 045c
अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् | 046a
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ || 046c
सञ्जय उवाच || 047
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् | 047a
विसर्जितः केशवेन रथोपस्थादवातरत् || 047c
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् | 048a
सहास्माभिर्निववृते राधेयो दीनमानसः || 048c
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः | 049a
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् || 049c