सञ्जय उवाच || 001
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा | 001a
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा || 001c
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना | 002a
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि || 002c
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र | 003a
जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः || 003c
दिव्या माया विहिता भौवनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा | 004a
दिव्यानि भूतानि भयावहानि दृश्यन्ति चैवात्र भयानकानि || 004c
न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः | 005a
श्रीमान्ध्वजः कर्ण धनञ्जयस्य समुच्छ्रितः पावकतुल्यरूपः || 005c
यदा द्रक्ष्यसि सड्ग्रामे श्वेताश्वं कृष्णसारथिम् | 006a
ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते || 006c
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः | 007a
न तदा भविता त्रेता न कृतं द्वापरं न च || 007c
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् | 008a
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् || 008c
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् | 009a
न तदा भविता त्रेता न कृतं द्वापरं न च || 009c
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् | 010a
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे || 010c
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् | 011a
न तदा भविता त्रेता न कृतं द्वापरं न च || 011c
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ | 012a
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव || 012c
विगाढे शस्त्रसम्पाते परवीररथारुजौ | 013a
न तदा भविता त्रेता न कृतं द्वापरं न च || 013c
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् | 014a
सुयोधनं च राजानं सैन्धवं च जयद्रथम् || 014c
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना | 015a
न तदा भविता त्रेता न कृतं द्वापरं न च || 015c
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् | 016a
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः || 016c
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः | 017a
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः || 017c
सप्तमाच्चापि दिवसादमावास्या भविष्यति | 018a
सङ्ग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् || 018c
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः | 019a
यद्वो मनीषितं तद्वै सर्वं सम्पादयामि वः || 019c
राजानो राजपुत्राश्च दुर्योधनवशानुगाः | 020a
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् || 020c