कर्ण उवाच 01
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव | 01a
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च || 01c
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः | 02a
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे || 02c
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन | 03a
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् || 03c
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः | 04a
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा || 04c
सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् | 05a
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन || 05c
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् | 06a
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव || 06c
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् | 07a
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः || 07c
तथा मामभिजानाति सूतश्चाधिरथः सुतम् | 08a
पितरं चाभिजानामि तमहं सौहृदात्सदा || 08c
स हि मे जातकर्मादि कारयामास माधव | 09a
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन || 09c
नाम मे वसुषेणेति कारयामास वै द्विजैः | 10a
भार्याश्चोढा मम प्राप्ते यौवने तेन केशव || 10c
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन | 11a
तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् || 11c
न पृथिव्या सकलया न सुवर्णस्य राशिभिः | 12a
हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे || 12c
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् | 13a
मया त्रयोदश समा भुक्तं राज्यमकण्टकम् || 13c
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् | 14a
आवाहाश्च विवाहाश्च सह सूतैः कृता मया || 14c
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः | 15a
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः || 15c
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत | 16a
वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः || 16c
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन | 17a
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः || 17c
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना | 18a
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः || 18c
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन | 19a
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः || 19c
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम | 20a
एतदत्र हितं मन्ये सर्वयादवनन्दन || 20c
यदि जानाति मां राजा धर्मात्मा संशितव्रतः | 21a
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति || 21c
प्राप्य चापि महद्राज्यं तदहं मधुसूदन | 22a
स्फीतं दुर्योधनायैव सम्प्रदद्यामरिन्दम || 22c
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः | 23a
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः || 23c
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः | 24a
नकुलः सहदेवश्च द्रौपदेयाश्च माधव || 24c
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः | 25a
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः || 25c
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा | 26a
इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः || 26c
मातुलो भीमसेनस्य सेनजिच्च महारथः | 27a
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन || 27c
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः | 28a
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु || 28c
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति | 29a
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन | 29c
आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति || 29e
होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः | 30a
गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति || 30c
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव | 31a
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना || 31c
अनुयातश्च पितरमधिको वा पराक्रमे | 32a
ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति || 32c
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः | 33a
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे || 33c
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः | 34a
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति || 34c
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन | 35a
उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति || 35c
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ | 36a
शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः || 36c
कल्माषदण्डा गोविन्द विमला रथशक्तयः | 37a
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन || 37c
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः | 38a
तोमराः सोमकलशाः पवित्राणि धनूंषि च || 38c
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च | 39a
हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति || 39c
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः | 40a
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः || 40c
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना | 41a
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः || 41c
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति | 42a
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः || 42c
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः | 43a
अतिरात्रे महाबाहो वितते यज्ञकर्मणि || 43c
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् | 44a
वैताने कर्मणि तते जातो यः कृष्ण पावकात् || 44c
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् | 45a
प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा || 45c
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना | 46a
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति || 46c
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः | 47a
आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति || 47c
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः | 48a
तदा यज्ञावसानं तद्भविष्यति जनार्दन || 48c
दुर्योधनं यदा हन्ता भीमसेनो महाबलः | 49a
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव || 49c
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः | 50a
हतेश्वरा हतसुता हतनाथाश्च केशव || 50c
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले | 51a
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन || 51c
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ | 52a
वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन || 52c
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् | 53a
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव || 53c
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् | 54a
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् || 54c
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन | 55a
तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति || 55c
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् | 56a
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् || 56c
समुपानय कौन्तेयं युद्धाय मम केशव | 57a
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप || 57c