धृतराष्ट्र उवाच || 001
राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय | 001a
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः || 001c
किमब्रवीद्रथोपस्थे राधेयं परवीरहा | 002a
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् || 002c
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् | 003a
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय || 003c
सञ्जय उवाच || 004
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च | 004a
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च || 004c
हृदयग्रहणीयानि राधेयं मधुसूदनः | 005a
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत || 005c
वासुदेव उवाच || 006
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः | 006a
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया || 006c
त्वमेव कर्ण जानासि वेदवादान्सनातनान् | 007a
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः || 007c
कानीनश्च सहोढश्च कन्यायां यश्च जायते | 008a
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः || 008c
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः | 009a
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि || 009c
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः | 010a
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ || 010c
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः | 011a
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् || 011c
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः | 012a
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः || 012c
राजानो राजपुत्राश्च पाण्डवार्थे समागताः | 013a
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः || 013c
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा | 014a
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः || 014c
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् | 015a
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति || 015c
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः | 016a
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् || 016c
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः | 017a
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा || 017c
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् | 018a
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः || 018c
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः | 019a
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः || 019c
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः | 020a
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति || 020c
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् | 021a
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति || 021c
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति | 022a
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये || 022c
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः | 023a
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः | 023c
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते || 023e
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः | 024a
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः || 024c
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः | 025a
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा || 025c
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः | 026a
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः || 026c
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः | 027a
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय || 027c
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा | 028a
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः || 028c