वैशम्पायन उवाच || 001
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः | 001c
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह|| 001c
तं वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात् | 002c
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ || 002c
भीष्म उवाच || 003
शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसङ्गरम् | 003c
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् || 003c
द्रोण उवाच || 004
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये | 004c
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे || 004c
तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनञ्जयम् | 005c
क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् || 005c
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः | 006c
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः || 006c
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः | 007c
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः || 007c
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति | 008c
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति || 008c
मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये | 009c
अहितत्वाय कल्पन्ते दोषा भरतसत्तम || 009c
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च | 010c
वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे || 010c
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि | 011c
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे || 011c
वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे | 012c
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् || 012c
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् | 013c
वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति || 013c
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः | 014c
तमैलविलमासाद्य धर्मराजो व्यराजत || 014c
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च | 015c
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः || 015c
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः | 016c
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ || 016c
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च | 017c
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि || 017c
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी | 018c
तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् || 018c
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः | 019c
सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् || 019c
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः | 020c
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् || 020c
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता | 021c
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे || 021c
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये | 022c
मा गमः ससुतामात्यः सबलश्च पराभवम् || 022c