वैशम्पायन उवाच || 001
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ | 001a
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् || 001c
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य सन्निधौ | 002a
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् || 002c
तत्करिष्यन्ति कौन्तेया वासुदेवस्य सम्मतम् | 003a
न हि ते जातु शाम्येरन्नृते राज्येन कौरव || 003c
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा | 004a
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव || 004c
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् | 005a
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च | 005c
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः || 005e
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता | 006a
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः || 006c
दानवान्घोरकर्माणो निवातकवचान्युधि | 007a
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना || 007c
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी | 008a
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् || 008c
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः | 009a
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् || 009c
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः | 010a
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् || 010c
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः | 011a
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः || 011c
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् | 012a
अभिवादय राजानं यथापूर्वमरिन्दम || 012c
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः | 013a
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः || 013c
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः | 014a
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः || 014c
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः | 015a
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः || 015c
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि | 016a
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् || 016c
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपा | 017a
सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव || 017c
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह | 018a
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् || 018c
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् | 019a
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते || 019c
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः | 020a
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः || 020c
विशेषत इहास्माकं निमित्तानि विनाशने | 021a
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव || 021c
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते | 022a
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः || 022c
नगरं न यथापूर्वं तथा राजनिवेशनम् | 023a
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् || 023c
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् | 024a
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च || 024c
न चेत्करिष्यसि वचः सुहृदामरिकर्शन | 025a
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् || 025c
भीमस्य च महानादं नदतः शुष्मिणो रणे | 026a
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् | 026c
यद्येतदपसव्यं ते भविष्यति वचो मम || 026e