कुन्त्युवाच || 001
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके | 001a
उपोपविष्टा नारीभिराश्रमे परिवारिता || 001c
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा | 002a
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः || 002c
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् | 003a
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति || 003c
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् | 004a
हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् || 004c
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति | 005a
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति || 005c
तं सत्यसन्धं बीभत्सुं सव्यसाचिनमच्युत | 006a
यथाहमेवं जानामि बलवन्तं दुरासदम् | 006c
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत || 006e
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति | 007a
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि || 007c
नाहं तदभ्यसूयामि यथा वागभ्यभाषत | 008a
नमो धर्माय महते धर्मो धारयति प्रजाः || 008c
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः | 009a
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः | 009c
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः || 009e
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति | 010a
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः || 010c
सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः | 011a
ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् || 011c
युक्तमेतन्महाभागे कुले जाते यशस्विनि | 012a
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः || 012c
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ | 013a
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि || 013c
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः | 014a
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम || 014c
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी | 015a
पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति || 015c
न राज्यहरणं दुःखं द्यूते चापि पराजयः | 016a
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् || 016c
यत्तु सा बृहती श्यामा सभायां रुदती तदा | 017a
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् || 017c
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा | 018a
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती || 018c
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् | 019a
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर || 019c
विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ | 020a
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् || 020c
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता | 021a
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत | 021c
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः || 021e
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह | 022a
मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन | 022c
अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय || 022e
वैशम्पायन उवाच || 023
अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् | 023a
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः || 023c
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् | 024a
आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह || 024c
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः | 025a
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् || 025c
प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता | 026a
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् || 026c
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः | 027a
मन्त्रयामास च तदा कर्णेन सुचिरं सह || 027c
विसर्जयित्वा राधेयं सर्वयादवनन्दनः | 028a
ततो जवेन महता तूर्णमश्वानचोदयत् || 028c
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः | 029a
हया जग्मुर्महावेगा मनोमारुतरंहसः || 029c
ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः | 030a
उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् || 030c