मातोवाच || 001
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि | 001a
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् || 001c
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते | 002a
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् || 002c
शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः | 003a
अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः || 003c
य एवात्यन्तसुहृदस्त एनं पर्युपासते | 004a
अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव | 004c
शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् || 004e
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः | 005a
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः | 005c
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः || 005e
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव | 006a
उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् || 006c
यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् | 007a
कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय || 007c
अस्ति नः कोशनिचयो महानविदितस्तव | 008a
तमहं वेद नान्यस्तमुपसम्पादयामि ते || 008c
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय | 009a
सुखदुःखसहा वीर शतार्हा अनिवर्तिनः || 009c
तादृशा हि सहाया वै पुरुषस्य बुभूषतः | 010a
ईषदुज्जिहतः किञ्चित्सचिवाः शत्रुकर्शनाः || 010c
पुत्र उवाच || 011
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः | 011a
तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् || 011c
उदके धूरियं धार्या सर्तव्यं प्रवणे मया | 012a
यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी || 012c
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् | 013a
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः || 013c
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् | 014a
उद्यच्छाम्येष शत्रूणां नियमाय जयाय च || 014c
कुन्त्युवाच || 015
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः | 015a
तच्चकार तथा सर्वं यथावदनुशासनम् || 015c
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् | 016a
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् || 016c
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा | 017a
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति || 017c
इदं पुंसवनं चैव वीराजननमेव च | 018a
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते || 018c
विद्याशूरं तपःशूरं दमशूरं तपस्विनम् | 019a
ब्राह्म्या श्रिया दीप्यमानं साधुवादेन सम्मतम् || 019c
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् | 020a
धृष्टवन्तमनाधृष्यं जेतारमपराजितम् || 020c
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् | 021a
तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् || 021c