पुत्र उवाच || 001
कृष्णायसस्येव च ते संहत्य हृदयं कृतम् | 001a
मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे || 001c
अहो क्षत्रसमाचारो यत्र मामपरं यथा | 002a
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् || 002c
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया | 003a
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा || 003c
मातोवाच || 004
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् | 004a
तानेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् || 004c
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः | 005a
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे | 005c
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि || 005e
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय | 006a
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् || 006c
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् | 007a
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः || 007c
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः | 008a
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन | 008c
दैवमानुषयुक्तेन सद्भिराचरितेन च || 008e
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा | 009a
अनुत्थानवता चापि मोघं तस्य प्रजाफलम् || 009c
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च | 010a
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः || 010c
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च | 011a
क्रूराय कर्मणे नित्यं प्रजानां परिपालने | 011c
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् || 011e
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् | 012a
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते || 012c
मन्युना दह्यमानेन पुरुषेण मनस्विना | 013a
निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया || 013c
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै | 014a
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् || 014c
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति | 015a
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् || 015c
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् | 016a
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् || 016c
पुत्र उवाच || 017
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः | 017a
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् || 017c
मातोवाच || 018
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि | 018a
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते || 018c
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् | 019a
अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते || 019c
पुत्र उवाच || 020
अकोशस्यासहायस्य कुतः स्विद्विजयो मम | 020a
इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् | 020c
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः || 020e
ईदृशं भवती कञ्चिदुपायमनुपश्यति | 021a
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते | 021c
करिष्यामि हि तत्सर्वं यथावदनुशासनम् || 021e
मातोवाच || 022
पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः | 022a
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे || 022c
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः | 023a
सर्वेषां कर्मणां तात फले नित्यमनित्यता || 023c
अनित्यमिति जानन्तो न भवन्ति भवन्ति च | 024a
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते || 024c
ऐकगुण्यमनीहायामभावः कर्मणां फलम् | 025a
अथ द्वैगुण्यमीहायां फलं भवति वा न वा || 025c
यस्य प्रागेव विदिता सर्वार्थानामनित्यता | 026a
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज || 026c
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु | 027a
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः | 027c
मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह || 027e
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक | 028a
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः || 028c
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च | 029a
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् | 029c
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि || 029e
क्रुद्धाल्ँलुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् | 030a
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय || 030c
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् | 031a
महावेग इवोद्धूतो मातरिश्वा बलाहकान् || 031c
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः | 032a
ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् || 032c
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् | 033a
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव || 033c
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि | 034a
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति || 034c
निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति | 035a
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च || 035c
स्खलितार्थं पुनस्तात सन्त्यजन्त्यपि बान्धवाः | 036a
अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् || 036c
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति | 037a
अतः सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति || 037c