विदुरोवाच || 001
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि | 001a
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव || 001c
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् | 002a
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः || 002c
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च | 003a
नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् || 003c
सन्ति वै सिन्धुराजस्य सन्तुष्टा बहवो जनाः | 004a
दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः || 004c
सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः | 005a
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् || 005c
तैः कृत्वा सह सङ्घातं गिरिदुर्गालयांश्चर | 006a
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः || 006c
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि | 007a
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः || 007c
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् | 008a
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति || 008c
तस्य स्मरन्ती वचनमाशंसे विजयं तव | 009a
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः || 009c
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे | 010a
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः || 010c
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय | 011a
एवं विद्वान्युद्धमना भव मा प्रत्युपाहर || 011c
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् | 012a
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते || 012c
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् | 013a
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् || 013c
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता | 014a
ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता || 014c
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् | 015a
पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् || 015c
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले | 016a
न तदा जीवितेनार्थो भविता तव सञ्जय || 016c
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् | 017a
अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते || 017c
यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा | 018a
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे || 018c
नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम | 019a
न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् || 019c
वयमाश्रयणीयाः स्म नाश्रितारः परस्य च | 020a
सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् || 020c
अपारे भव नः पारमप्लवे भव नः प्लवः | 021a
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः || 021c
सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि | 022a
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे || 022c
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् | 023a
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् || 023c
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत | 024a
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् || 024c
नाम विश्राव्य वा सङ्ख्ये शत्रूनाहूय दंशितान् | 025a
सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् || 025c
यदैव लभते वीरः सुयुद्धेन महद्यशः | 026a
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च || 026c
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः | 027a
अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः || 027c
राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा | 028a
प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः || 028c
स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् | 029a
रुद्धमेकायने मत्वा पतोल्मुक इवारिषु || 029c
जहि शत्रून्रणे राजन्स्वधर्ममनुपालय | 030a
मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन || 030c
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् | 031a
अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् || 031c
उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा | 032a
मा च सैन्धवकन्यानामवसन्नो वशं गमः || 032c
युवा रूपेण सम्पन्नो विद्ययाभिजनेन च | 033a
यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः | 033c
वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् || 033e
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् | 034a
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे || 034c
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः | 035a
न त्वं परस्यानुधुरं तात जीवितुमर्हसि || 035c
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् | 036a
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि || 036c
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् | 037a
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् || 037c
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् | 038a
अप्यपर्वणि भज्येत न नमेदिह कस्यचित् || 038c
मातङ्गो मत्त इव च परीयात्सुमहामनाः | 039a
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय || 039c
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः | 040a
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् || 040c