कुन्त्युवाच || 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | 001a
विदुरायाश्च संवादं पुत्रस्य च परन्तप || 001c
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति | 002a
यशस्विनी मन्युमती कुले जाता विभावरी || 002c
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी | 003a
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता || 003c
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् | 004a
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् | 004c
अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् || 004e
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि | 005a
निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः || 005c
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह | 006a
मात्मानमवमन्यस्व मैनमल्पेन बीभरः | 006c
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ || 006e
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः | 007a
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः || 007c
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः | 008a
सुसन्तोषः कापुरुषः स्वल्पकेनापि तुष्यति || 008c
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज | 009a
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम || 009c
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् | 010a
विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः || 010c
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा | 011a
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः || 011c
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा | 012a
मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः || 012c
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल | 013a
मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः | 013c
मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् || 013e
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः | 014a
कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् | 014c
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते || 014e
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः | 015a
आनन्तर्यं चारभते न प्राणानां धनायते || 015c
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् | 016a
धर्मं पुत्राग्रतः कृत्वा किन्निमित्तं हि जीवसि || 016c
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता | 017a
विच्छिन्नं भोगमूलं ते किन्निमित्तं हि जीवसि || 017c
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता | 018a
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन | 018c
उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् || 018e
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः | 019a
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि || 019c
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् | 020a
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् || 020c
दाने तपसि शौर्ये च यस्य न प्रथितं यशः | 021a
विद्यायामर्थलाभे वा मातुरुच्चार एव सः || 021c
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा | 022a
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् || 022c
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि | 023a
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् || 023c
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् | 024a
लोकस्य समवज्ञातं निहीनाशनवाससम् || 024c
अहोलाभकरं दीनमल्पजीवनमल्पकम् | 025a
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते || 025c
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः | 026a
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः || 026c
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् | 027a
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् || 027c
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् | 028a
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् || 028c
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् | 029a
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् || 029c
एतावानेव पुरुषो यदमर्षी यदक्षमी | 030a
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् || 030c
सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च | 031a
अनुत्थानभये चोभे निरीहो नाश्नुते महत् || 031c
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना | 032a
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् || 032c
पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते | 033a
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति || 033c
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः | 034a
दिष्टभावं गतस्यापि विघसे मोदते प्रजा || 034c
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् | 035a
अमात्यानामथो हर्षमादधात्यचिरेण सः || 035c
पुत्र उवाच || 036
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया | 036a
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा || 036c
मातोवाच || 037
किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः | 037a
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः || 037c
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् | 038a
कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः || 038c
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा | 039a
पर्जन्यमिव भूतानि देवा इव शतक्रतुम् || 039c
यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय | 040a
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् || 040c
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् | 041a
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् || 041c
स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः | 042a
स लोके लभते कीर्तिं परत्र च शुभां गतिम् || 042c