वैशम्पायन उवाच || 001
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च | 001a
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि || 001c
वासुदेव उवाच || 002
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् | 002a
ॠषिभिश्च मया चैव न चासौ तद्गृहीतवान् || 002c
कालपक्वमिदं सर्वं दुर्योधनवशानुगम् | 003a
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति || 003c
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया | 004a
तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव || 004c
कुन्त्युवाच || 005
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् | 005a
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः || 005c
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः | 006a
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते || 006c
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा | 007a
उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता | 007c
क्रूराय कर्मणे नित्यं प्रजानां परिपालने || 007e
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया | 008a
मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् | 008c
पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् || 008e
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये | 009a
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत || 009c
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् | 010a
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः || 010c
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः | 011a
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति || 011c
राजा चरति चेद्धर्मं देवत्वायैव कल्पते | 012a
स चेदधर्मं चरति नरकायैव गच्छति || 012c
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति | 013a
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति || 013c
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते | 014a
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते || 014c
कालो वा कारणं राज्ञो राजा वा कालकारणम् | 015a
इति ते संशयो मा भूद्राजा कालस्य कारणम् || 015c
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च | 016a
युगस्य च चतुर्थस्य राजा भवति कारणम् || 016c
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते | 017a
त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते | 017c
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते || 017e
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः | 018a
राजदोषेण हि जगत्स्पृश्यते जगतः स च || 018c
राजधर्मानवेक्षस्व पितृपैतामहोचितान् | 019a
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि || 019c
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः | 020a
प्रजापालनसम्भूतं किञ्चित्प्राप फलं नृपः || 020c
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः | 021a
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया || 021c
यज्ञो दानं तपः शौर्यं प्रजासन्तानमेव च | 022a
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया || 022c
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः | 023a
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः || 023c
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च | 024a
दानमध्ययनं यज्ञं प्रजानां परिपालनम् || 024c
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः | 025a
ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः || 025c
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः | 026a
प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः || 026c
दानेनान्यं बलेनान्यं तथा सूनृतयापरम् | 027a
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः || 027c
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् | 028a
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् || 028c
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते | 029a
क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता || 029c
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर | 030a
साम्ना दानेन भेदेन दण्डेनाथ नयेन च || 030c
इतो दुःखतरं किं नु यदहं हीनबान्धवा | 031a
परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन || 031c
युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् | 032a
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् || 032c