वैशम्पायन उवाच || 001
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा | 001a
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् || 001c
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन | 002a
परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि || 002c
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः | 003a
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः || 003c
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा | 004a
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः | 004c
अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः || 004e
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् | 005a
लोकपाला भुजेष्वासन्नग्निरास्यादजायत || 005c
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि | 006a
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च | 006c
बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् || 006e
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ | 007a
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः || 007c
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः | 008a
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः || 008c
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः | 009a
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः || 009c
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च | 010a
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः || 010c
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः | 011a
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः | 011c
रोमकूपेषु च तथा सूर्यस्येव मरीचयः || 011e
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः | 012a
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः || 012c
ॠते द्रोणं च भीष्मं च विदुरं च महामतिम् | 013a
सञ्जयं च महाभागमृषींश्चैव तपोधनान् | 013c
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः || 013e
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले | 014a
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च || 014c
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे | 015a
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ || 015c
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् | 016a
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः || 016c
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च | 017a
ॠषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः || 017c
ॠषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः | 018a
तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा || 018c
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः | 019a
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् || 019c
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् | 020a
निश्चक्राम ततः शौरिः सधूम इव पावकः || 020c
ततो रथेन शुभ्रेण महता किङ्किणीकिना | 021a
हेमजालविचित्रेण लघुना मेघनादिना || 021c
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना | 022a
सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः || 022c
तथैव रथमास्थाय कृतवर्मा महारथः | 023a
वृष्णीनां सम्मतो वीरो हार्दिक्यः प्रत्यदृश्यत || 023c
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् | 024a
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत || 024c
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन | 025a
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन || 025c
कुरूणां शममिच्छन्तं यतमानं च केशव | 026a
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि || 026c
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव | 027a
ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः || 027c
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः | 028a
शमे प्रयतमानं मां सर्वयत्नेन माधव || 028c
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् | 029a
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् || 029c
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि | 030a
यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः || 030c
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः | 031a
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् || 031c
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् | 032a
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः || 032c
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः | 033a
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः || 033c
ततो रथेन शुभ्रेण महता किङ्किणीकिना | 034a
कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् || 034c