वैशम्पायन उवाच || 001
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् | 001a
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् || 001c
ततः सभाया निर्गम्य मन्त्रयामास कौरवः | 002a
सौबलेन मताक्षेण राज्ञा शकुनिना सह || 002c
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च | 003a
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् || 003c
पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः | 004a
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च || 004c
वयमेव हृषीकेशं निगृह्णीम बलादिव | 005a
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा || 005c
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः | 006a
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः || 006c
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च | 007a
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् | 007c
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह || 007e
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् | 008a
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् || 008c
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् | 009a
इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः || 009c
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः | 010a
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् || 010c
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः | 011a
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे || 011c
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव | 012a
आचष्ट तमभिप्रायं केशवाय महात्मने || 012c
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत | 013a
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव || 013c
धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् | 014a
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन || 014c
पुरा विकुर्वते मूढाः पापात्मानः समागताः | 015a
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः || 015c
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः | 016a
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः || 016c
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् | 017a
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि || 017c
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप | 018a
अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः || 018c
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च | 019a
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् || 019c
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् | 020a
आसाद्य न भविष्यन्ति पतङ्गा इव पावकम् || 020c
अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः | 021a
सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् || 021c
न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथञ्चन | 022a
न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः || 022c
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् | 023a
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः || 023c
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा | 024a
एते वा मामहं वैनाननुजानीहि पार्थिव || 024c
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे | 025a
न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन || 025c
पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः | 026a
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः || 026c
अद्यैव ह्यहमेतांश्च ये चैताननु भारत | 027a
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् || 027c
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत | 028a
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् || 028c
एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् | 029a
अहं तु सर्वान्समयाननुजानामि भारत || 029c
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत | 030a
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् || 030c
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् | 031a
शक्नुयां यदि पन्थानमवतारयितुं पुनः || 031c
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् | 032a
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् || 032c
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत | 033a
कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् || 033c
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् | 034a
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि || 034c
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् | 035a
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः || 035c
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् | 036a
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि || 036c
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः | 037a
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा || 037c
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः | 038a
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् || 038c
दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी | 039a
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् || 039c
इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् | 040a
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् || 040c
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः | 041a
शिलावर्षेण महता छादयामास केशवम् || 041c
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् | 042a
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् || 042c
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः | 043a
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् || 043c
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः | 044a
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् || 044c
अनेन हि हता बाल्ये पूतना शिशुना तथा | 045a
गोवर्धनो धारितश्च गवार्थे भरतर्षभ || 045c
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः | 046a
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् || 046c
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् | 047a
बाणश्च निहतः सङ्ख्ये राजानश्च निषूदिताः || 047c
वरुणो निर्जितो राजा पावकश्चामितौजसा | 048a
पारिजातं च हरता जितः साक्षाच्छचीपतिः || 048c
एकार्णवे शयानेन हतौ तौ मधुकैटभौ | 049a
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः || 049c
अयं कर्ता न क्रियते कारणं चापि पौरुषे | 050a
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः || 050c
तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् | 051a
आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् || 051c
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् | 052a
पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि || 052c