वैशम्पायन उवाच || 001
कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः | 001a
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत || 001c
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् | 002a
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् || 002c
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् | 003a
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् || 003c
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् | 004a
दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः || 004c
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् | 005a
शमयेच्चिररात्राय योगक्षेमवदव्ययम् || 005c
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् | 006a
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् || 006c
धृतराष्ट्र उवाच || 007
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः | 007a
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति || 007c
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः | 008a
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः || 008c
वैशम्पायन उवाच || 009
सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी | 009a
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् || 009c
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् | 010a
न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना || 010c
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः | 011a
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे || 011c
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः | 012a
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् || 012c
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः | 013a
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् || 013c
कथं हि स्वजने भेदमुपेक्षेत महामतिः | 014a
भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः || 014c
या हि शक्या महाराज साम्ना दानेन वा पुनः | 015a
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् || 015c
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् | 016a
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः || 016c
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः | 017a
अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः || 017c
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् | 018a
विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् || 018c
दुर्योधन निबोधेदं वचनं मम पुत्रक | 019a
हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् || 019c
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता | 020a
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया || 020c
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते | 021a
अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ || 021c
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् | 022a
विजितात्मा तु मेधावी स राज्यमभिपालयेत् || 022c
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः | 023a
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् || 023c
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः | 024a
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् || 024c
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः | 025a
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः || 025c
अविध्येयानि हीमानि व्यापादयितुमप्यलम् | 026a
अविधेया इवादान्ता हयाः पथि कुसारथिम् || 026c
अविजित्य य आत्मानममात्यान्विजिगीषते | 027a
अजितात्माजितामात्यः सोऽवशः परिहीयते || 027c
आत्मानमेव प्रथमं देशरूपेण यो जयेत् | 028a
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते || 028c
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु | 029a
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते || 029c
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ | 030a
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः || 030c
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् | 031a
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ || 031c
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः | 032a
सम्यग्विजेतुं यो वेद स महीमभिजायते || 032c
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः | 033a
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् || 033c
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते | 034a
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत || 034c
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः | 035a
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी || 035c
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः | 036a
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ || 036c
प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् | 037a
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः || 037c
सुहृदामर्थकामानां यो न तिष्ठति शासने | 038a
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः || 038c
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् | 039a
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः || 039c
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च | 040a
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिन्दम || 040c
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि | 041a
यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् || 041c
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम | 042a
यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् || 042c
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् | 043a
सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत || 043c
श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः | 044a
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् || 044c
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् | 045a
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ || 045c
अलमह्ना निकारोऽयं त्रयोदश समाः कृतः | 046a
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् || 046c
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति | 047a
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते || 047c
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये | 048a
धृष्टद्युम्ने च सङ्क्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् || 048c
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः | 049a
सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् || 049c
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः | 050a
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते || 050c
समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् | 051a
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः || 051c
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् | 052a
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् || 052c
न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते | 053a
तदलं तात लोभेन प्रशाम्य भरतर्षभ || 053c