वैशम्पायन उवाच || 001
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः | 001a
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि || 001c
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि | 002a
स्थिरो भव सहामात्यो विमर्दो भविता महान् || 002c
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः | 003a
पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः || 003c
श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् | 004a
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत || 004c
कथं च ज्ञातयस्तात श्रेयांसः साधुसम्मताः | 005a
तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः || 005c
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् | 006a
असतां तत्र जायन्ते भेदाश्च व्यसनानि च || 006c
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् | 007a
असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः || 007c
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति | 008a
आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया || 008c
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी | 009a
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया || 009c
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि | 010a
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः || 010c
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु | 011a
स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् || 011c
नृशंसानामनार्याणां परुषाणां च भाषणम् | 012a
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् || 012c
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते | 013a
आस्थितः परमं यत्नं न समृद्धं च तत्तव || 013c
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा | 014a
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने || 014c
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया | 015a
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव || 015c
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् | 016a
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु || 016c
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् | 017a
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे || 017c
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च | 018a
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव || 018c
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः | 019a
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् || 019c
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः | 020a
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया || 020c
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् | 021a
दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि || 021c
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः | 022a
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः || 022c
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ | 023a
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते || 023c
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः | 024a
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् || 024c
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् | 025a
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् || 025c
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः | 026a
अशिष्टवदमर्यादो मानी मान्यावमानिता || 026c
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् | 027a
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः || 027c
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह | 028a
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् || 028c
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते | 029a
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव || 029c
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् | 030a
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः || 030c
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन | 031a
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः || 031c
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः | 032a
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् || 032c
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः | 033a
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् || 033c
तत्र कार्यमहं मन्ये प्राप्तकालमरिन्दमाः | 034a
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः || 034c
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः | 035a
भवतामानुकूल्येन यदि रोचेत भारताः || 035c
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् | 036a
जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः || 036c
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः | 037a
ज्ञातीनां हितकामेन मया शस्तो महामृधे || 037c
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः | 038a
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः || 038c
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः | 039a
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः || 039c
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः | 040a
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च || 040c
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत | 041a
अब्रवीत्सृष्टिमान्देवो भगवाल्ँलोकभावनः || 041c
पराभविष्यन्त्यसुरा दैतेया दानवैः सह | 042a
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः || 042c
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः | 043a
अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् || 043c
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः | 044a
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् || 044c
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः | 045a
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् || 045c
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः | 046a
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् || 046c
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् | 047a
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत || 047c
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् | 048a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् || 048c
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः | 049a
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ || 049c