वैशम्पायन उवाच || 001
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि | 001a
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् || 001c
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव | 002a
मामेव हि विशेषेण विभाष्य परिगर्हसे || 002c
भक्तिवादेन पार्थानामकस्मान्मधुसूदन | 003a
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् || 003c
भवान्क्षत्ता च राजा च आचार्यो वा पितामहः | 004a
मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम् || 004c
न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः | 005a
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः || 005c
न चाहं कञ्चिदत्यर्थमपराधमरिन्दम | 006a
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव || 006c
प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन | 007a
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् || 007c
यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः | 008a
तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन || 008c
अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः | 009a
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् || 009c
केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह | 010a
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् || 010c
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि | 011a
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह || 011c
न चापि वयमुग्रेण कर्मणा वचनेन वा | 012a
वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः || 012c
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् | 013a
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण || 013c
न हि भीष्मकृपद्रोणाः सगणा मधुसूदन | 014a
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः || 014c
स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे | 015a
शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् || 015c
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन | 016a
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् || 016c
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे | 017a
अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव || 017c
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् | 018a
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् || 018c
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् | 019a
अप्यपर्वणि भज्येत न नमेदिह कस्यचित् || 019c
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः | 020a
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः || 020c
अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथाचरेत् | 021a
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा || 021c
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् | 022a
न स लभ्यः पुनर्जातु मयि जीवति केशव || 022c
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन | 023a
न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव || 023c
यद्यदेयं पुरा दत्तं राज्यं परवतो मम | 024a
अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन || 024c
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन | 025a
ध्रियमाणे महाबाहो मयि सम्प्रति केशव || 025c
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव | 026a
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति || 026c