वैशम्पायन उवाच || 001
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ | 001a
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् || 001c
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् | 002a
यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् || 002c
यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः | 003a
ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् || 003c
यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः | 004a
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् || 004c
यावन्न चरते मार्गान्पृतनामभिहर्षयन् | 005a
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् || 005c
गदया वीरघातिन्या फलानीव वनस्पतेः | 006a
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् || 006c
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः | 007a
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः || 007c
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् | 008a
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् || 008c
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् | 009a
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् || 009c
चन्दनागरुदिग्धेषु हारनिष्कधरेषु च | 010a
नोरःसु यावद्योधानां महेष्वासैर्महेषवः || 010c
कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः | 011a
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् || 011c
अभिवादयमानं त्वां शिरसा राजकुञ्जरः | 012a
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः || 012c
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः | 013a
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ || 013c
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च | 014a
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु || 014c
शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः | 015a
साम्नाभिवदतां चापि शान्तये भरतर्षभ || 015c
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः | 016a
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव || 016c
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सङ्गतम् | 017a
यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः || 017c
घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम् | 018a
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव || 018c