वैशम्पायन उवाच || 001
ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् | 001a
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ || 001c
कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता | 002a
अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः || 002c
अकृत्वा वचनं तात केशवस्य महात्मनः | 003a
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि || 003c
धर्म्यमर्थं महाबाहुराह त्वां तात केशवः | 004a
तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः || 004c
इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु | 005a
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि || 005c
आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् | 006a
सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि || 006c
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् | 007a
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः || 007c
मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः | 008a
पितरं मातरं चैव वृद्धौ शोकाय मा ददः || 008c
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः | 009a
अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः || 009c
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः | 010a
तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप || 010c
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ | 011a
आहतुस्त्वां हितं वाक्यं तदादत्स्व परन्तप || 011c
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः | 012a
मा वचो लघुबुद्धीनां समास्थास्त्वं परन्तप || 012c
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् | 013a
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे || 013c
मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च | 014a
वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् || 014c
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः | 015a
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत || 015c
यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः | 016a
कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः || 016c
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ | 017a
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु | 017c
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम || 017e
तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् | 018a
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् || 018c
दुर्योधन न शोचामि त्वामहं भरतर्षभ | 019a
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते || 019c
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा | 020a
हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ || 020c
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् | 021a
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् || 021c
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत | 022a
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् || 022c
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना | 023a
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् || 023c
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा | 024a
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु || 024c
सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् | 025a
चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् || 025c
वासुदेवेन तीर्थेन तात गच्छस्व सङ्गमम् | 026a
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः || 026c
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् | 027a
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः || 027c