धृतराष्ट्र उवाच || 001
भगवन्नेवमेवैतद्यथा वदसि नारद | 001a
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् || 001c
वैशम्पायन उवाच || 002
एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत | 002a
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव || 002c
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् | 003a
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम || 003c
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम | 004a
सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन || 004c
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् | 005a
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् || 005c
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम | 006a
समर्थं ते विशेषेण सानुबन्धस्य भारत || 006c
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि | 007a
श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः || 007c
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः | 008a
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे || 008c
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् | 009a
असतां विपरीता तु लक्ष्यते भरतर्षभ || 009c
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि | 010a
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् || 010c
अनेकशस्त्वन्निमित्तमयशस्यं च भारत | 011a
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि || 011c
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप | 012a
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे || 012c
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः | 013a
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ || 013c
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः | 014a
पितामहस्य द्रोणस्य विदुरस्य महामतेः || 014c
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः | 015a
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विशां पते || 015c
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप | 016a
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा || 016c
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् | 017a
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ || 017c
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत | 018a
उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् || 018c
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः | 019a
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् || 019c
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते | 020a
विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम् || 020c
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते | 021a
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते || 021c
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते | 022a
आत्मनो मतमुत्सृज्य स लोके सुखमेधते || 022c
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते | 023a
शृणोति प्रतिकूलानि द्विषतां वशमेति सः || 023c
सतां मतमतिक्रम्य योऽसतां वर्तते मते | 024a
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव || 024c
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते | 025a
स घोरामापदं प्राप्य नोत्तारमधिगच्छति || 025c
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा | 026a
परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत || 026c
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि | 027a
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ || 027c
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् | 028a
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः || 028c
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया | 029a
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः || 029c
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः | 030a
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः || 030c
त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ | 031a
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः || 031c
त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ | 032a
धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः || 032c
पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते | 033a
मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते || 033c
इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः | 034a
कामार्थावनुपायेन लिप्समानो विनश्यति || 034c
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् | 035a
न हि धर्मादपैत्यर्थः कामो वापि कदाचन || 035c
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते | 036a
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते || 036c
स त्वं तातानुपायेन लिप्ससे भरतर्षभ | 037a
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु || 037c
आत्मानं तक्षति ह्येष वनं परशुना यथा | 038a
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते || 038c
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् | 039a
अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः || 039c
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत | 040a
अप्यन्यं प्राकृतं किञ्चित्किमु तान्पाण्डवर्षभान् || 040c
अमर्षवशमापन्नो न किञ्चिद्बुध्यते नरः | 041a
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत | 041c
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गमः | 042a
तैर्हि सम्प्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि || 042c
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम | 043a
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः || 043c
दुःशासने दुर्विषहे कर्णे चापि ससौबले | 044a
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत || 044c
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा | 045a
विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत || 045c
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया | 046a
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे || 046c
इदं सन्निहितं तात समग्रं पार्थिवं बलम् | 047a
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः || 047c
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः | 048a
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् || 048c
अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः | 049a
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः || 049c
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले | 050a
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् || 050c
किं ते जनक्षयेणेह कृतेन भरतर्षभ | 051a
यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् || 051c
यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् | 052a
अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः || 052c
तथा विराटनगरे श्रूयते महदद्भुतम् | 053a
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् || 053c
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् | 054a
आशंससीह समरे वीरमर्जुनमूर्जितम् || 054c
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति | 055a
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः || 055c
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः | 056a
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् || 056c
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिनस्तथा | 057a
त्वत्कृते न विनश्येयुरेते भरतसत्तम || 057c
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् | 058a
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप || 058c
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः | 059a
महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् || 059c
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् | 060a
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि || 060c
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः | 061a
सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि || 061c