नारद उवाच || 001
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः | 001a
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः || 001c
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना | 002a
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना || 002c
अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् | 003a
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया || 003c
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः | 004a
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः || 004c
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः | 005a
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः || 005c
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः | 006a
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव || 006c
चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा | 007a
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि | 007c
पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा || 007e
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् | 008a
येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः || 008c
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः | 009a
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् | 009c
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् || 009e
ययातिरुवाच || 010
भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि | 010a
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह || 010c
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् | 011a
अनेकक्रतुदानौघैरर्जितं मे महत्फलम् || 011c
कथं तदल्पकालेन क्षीणं येनास्मि पातितः | 012a
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् || 012c
पितामह उवाच || 013
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् | 013a
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् || 013c
तदनेनैव दोषेण क्षीणं येनासि पातितः | 014a
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः || 014c
नायं मानेन राजर्षे न बलेन न हिंसया | 015a
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः || 015c
नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः | 016a
न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् || 016c
पतनारोहणमिदं कथयिष्यन्ति ये नराः | 017a
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः || 017c
नारद उवाच || 018
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना | 018a
निर्बन्धतश्चातिमात्रं गालवेन महीपते || 018c
श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् | 019a
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः || 019c
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय | 020a
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव || 020c
ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यज्जुहोति | 021a
न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता || 021c
इदं महाख्यानमनुत्तमं मतं बहुश्रुतानां गतरोषरागिणाम् | 022a
समीक्ष्य लोके बहुधा प्रधाविता त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते || 022c