नारद उवाच || 001
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः | 001a
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः || 001c
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः | 002a
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा || 002c
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः | 003a
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा || 003c
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया | 004a
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् || 004c
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् | 005a
यच्च मे फलमाधाने तेन संयुज्यतां भवान् || 005c
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः | 006a
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः || 006c
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः | 007a
वीरशब्दफलं चैव तेन संयुज्यतां भवान् || 007c
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् | 008a
यथा बालेषु नारीषु वैहार्येषु तथैव च || 008c
सङ्गरेषु निपातेषु तथापद्व्यसनेषु च | 009a
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज || 009c
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च | 010a
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज || 010c
यथा सत्येन मे धर्मो यथा सत्येन पावकः | 011a
प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज || 011c
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः | 012a
अनेकशतयज्वानं वचनं प्राह धर्मवित् || 012c
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो | 013a
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि || 013c
न मे रत्नानि न धनं न तथान्ये परिच्छदाः | 014a
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज || 014c
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् | 015a
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ || 015c
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा | 016a
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा || 016c
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै || 017a
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः | 017c
मातामहं महाप्राज्ञं दिवमारोपयन्ति ते || 017e
राजान ऊचुः || 018
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः | 018a
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः || 018c