नारद उवाच || 001
अथ प्रचलितः स्थानादासनाच्च परिच्युतः | 001a
कम्पितेनैव मनसा धर्षितः शोकवह्निना || 001c
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः | 002a
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः || 002c
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः | 003a
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् || 003c
किं मया मनसा ध्यातमशुभं धर्मदूषणम् | 004a
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् || 004c
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा | 005a
अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् || 005c
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः | 006a
ययातिमब्रवीद्राजन्देवराजस्य शासनात् || 006c
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे | 007a
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज | 007c
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् || 007e
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः | 008a
पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः || 008c
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् | 009a
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः || 009c
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः | 010a
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् || 010c
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् | 011a
ययातिरुपजिघ्रन्वै निपपात महीं प्रति || 011c
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीं नृपः | 012a
स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः || 012c
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु | 013a
मध्ये निपतितो राजा लोकपालोपमेषु च || 013c
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु | 014a
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये || 014c
तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः | 015a
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा || 015c
यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा | 016a
न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया || 016c
ययातिरुवाच || 017
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः | 017a
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः || 017c
राजान ऊचुः || 018
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ | 018a
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् || 018c
ययातिरुवाच || 019
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् | 019a
न च मे प्रवणा बुद्धिः परपुण्यविनाशने || 019c
नारद उवाच || 020
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् | 020a
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् || 020c
किमागमनकृत्यं ते किं कुर्मः शासनं तव | 021a
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने || 021c
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा | 022a
पितरं समुपागच्छद्ययातिं सा ववन्द च || 022c
दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् | 023a
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः | 023c
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् || 023e
अहं ते दुहिता राजन्माधवी मृगचारिणी | 024a
मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् || 024c
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः | 025a
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप || 025c
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा | 026a
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् || 026c
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् | 027a
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् || 027c
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् | 028a
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् || 028c