नारद उवाच || 001
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् | 001a
उपगम्याश्रमपदं गङ्गायमुनसङ्गमे || 001c
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् | 002a
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् || 002c
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् | 003a
शैलद्रुमवनौकानामासीत्तत्र समागमः || 003c
नानापुरुषदेशानामीश्वरैश्च समाकुलम् | 004a
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् || 004c
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी | 005a
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् || 005c
अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु | 006a
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा || 006c
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा | 007a
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी || 007c
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च | 008a
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च || 008c
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च | 009a
पिबन्ती वारिमुख्यानि शीतानि विमलानि च || 009c
वनेषु मृगराजेषु सिंहविप्रोषितेषु च | 010a
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च || 010c
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी | 011a
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता || 011c
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः | 012a
बहुवर्षसहस्रायुरयुजत्कालधर्मणा || 012c
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ | 013a
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः || 013c
महीयते नरपतिर्ययातिः स्वर्गमास्थितः | 014a
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः || 014c
बहुवर्षसहस्राख्ये काले बहुगुणे गते | 015a
राजर्षिषु निषण्णेषु महीयःसु महर्षिषु || 015c
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा | 016a
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः || 016c
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः | 017a
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् || 017c
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् | 018a
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः || 018c
कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् | 019a
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत || 019c
एवं विचारयन्तस्ते राजानः स्वर्गवासिनः | 020a
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति || 020c
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः | 021a
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् || 021c
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् | 022a
स मुहूर्तादथ नृपो हतौजा अभवत्तदा || 022c