नारद उवाच || 001
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् | 001a
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज || 001c
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् | 002a
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि || 002c
सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः | 003a
प्रयत्नस्ते न कर्तव्यो नैष सम्पत्स्यते तव || 003c
पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् | 004a
भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः || 004c
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् | 005a
भगवन्दीयतां मह्यं सहस्रमिति गालव || 005c
ॠचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः | 006a
अश्वतीर्थे हयाल्ँलब्ध्वा दत्तवान्पार्थिवाय वै || 006c
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु | 007a
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा || 007c
अपराण्यपि चत्वारि शतानि द्विजसत्तम | 008a
नीयमानानि सन्तारे हृतान्यासन्वितस्तया | 008c
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् || 008e
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय | 009a
विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह | 009c
ततोऽसि गतसम्मोहः कृतकृत्यो द्विजर्षभ || 009e
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः | 010a
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् || 010c
गालव उवाच || 011
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै | 011a
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् | 011c
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः | 012a
चतुर्थं जनयत्वेकं भवानपि नरोत्तम || 012c
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते | 013a
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् || 013c
नारद उवाच || 014
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा | 014a
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः || 014c
किमियं पूर्वमेवेह न दत्ता मम गालव | 015a
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः || 015c
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै | 016a
अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः || 016c
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः | 017a
आत्मजं जनयामास माधवीपुत्रमष्टकम् || 017c
जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः | 018a
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् || 018c
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् | 019a
निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ || 019c
गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् | 020a
मनसाभिप्रतीतेन कन्यामिदमुवाच ह || 020c
जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः | 021a
सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः || 021c
तदागच्छ वरारोहे तारितस्ते पिता सुतैः | 022a
चत्वारश्चैव राजानस्तथाहं च सुमध्यमे || 022c
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् | 023a
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह || 023c