नारद उवाच || 001
तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी | 001a
माधवी गालवं विप्रमन्वयात्सत्यसङ्गरा || 001c
गालवो विमृशन्नेव स्वकार्यगतमानसः | 002a
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् || 002c
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् | 003a
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ || 003c
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च | 004a
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप || 004c
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् | 005a
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् || 005c
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे | 006a
यदि शक्यं महाराज क्रियतां मा विचार्यताम् || 006c
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव | 007a
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय || 007c
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः | 008a
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः || 008c
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् | 009a
उशीनरः प्रतिवचो ददौ तस्य नराधिपः || 009c
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव | 010a
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम || 010c
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम | 011a
इतरेषां सहस्राणि सुबहूनि चरन्ति मे || 011c
अहमप्येकमेवास्यां जनयिष्यामि गालव | 012a
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् || 012c
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम | 013a
पौरजानपदार्थं तु ममार्थो नात्मभोगतः || 013c
कामतो हि धनं राजा पारक्यं यः प्रयच्छति | 014a
न स धर्मेण धर्मात्मन्युज्यते यशसा न च || 014c
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम | 015a
कुमारीं देवगर्भाभामेकपुत्रभवाय मे || 015c
तथा तु बहुकल्याणमुक्तवन्तं नराधिपम् | 016a
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् || 016c
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् | 017a
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् || 017c
कन्दरेषु च शैलानां नदीनां निर्झरेषु च | 018a
उद्यानेषु विचित्रेषु वनेषूपवनेषु च || 018c
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च | 019a
वातायनविमानेषु तथा गर्भगृहेषु च || 019c
ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः | 020a
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः || 020c
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च | 021a
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् || 021c