नारद उवाच || 001
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः | 001a
दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः || 001c
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु | 002a
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु || 002c
बहुदेवासुरालोका बहुगन्धर्वदर्शना | 003a
बहुलक्षणसम्पन्ना बहुप्रसवधारिणी || 003c
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् | 004a
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम || 004c
गालव उवाच || 005
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे | 005a
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् || 005c
ततस्तव भवित्रीयं पुत्राणां जननी शुभा | 006a
अरणीव हुताशानां योनिरायतलोचना || 006c
नारद उवाच || 007
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः | 007a
उवाच गालवं दीनो राजर्षिर्ॠषिसत्तमम् || 007c
द्वे मे शते सन्निहिते हयानां यद्विधास्तव | 008a
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः || 008c
सोऽहमेकमपत्यं वै जनयिष्यामि गालव | 009a
अस्यामेतं भवान्कामं सम्पादयतु मे वरम् || 009c
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् | 010a
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना || 010c
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि | 011a
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् || 011c
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै | 012a
भविष्यन्ति तथा पुत्रा मम चत्वार एव च || 012c
क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम | 013a
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज || 013c
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा | 014a
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् || 014c
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् | 015a
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् || 015c
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च | 016a
समये देशकाले च लब्धवान्सुतमीप्सितम् || 016c
ततो वसुमना नाम वसुभ्यो वसुमत्तरः | 017a
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः || 017c
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः | 018a
उपसङ्गम्य चोवाच हर्यश्वं प्रीतिमानसम् || 018c
जातो नृप सुतस्तेऽयं बालभास्करसन्निभः | 019a
कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् || 019c
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे | 020a
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः || 020c
माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् | 021a
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् || 021c
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः | 022a
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् || 022c