नारद उवाच || 001
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् | 001a
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः || 001c
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः | 002a
ययातिर्वत्सकाशीश इदं वचनमब्रवीत् || 002c
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् | 003a
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् || 003c
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् | 004a
मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च || 004c
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् | 005a
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ || 005c
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा | 006a
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे || 006c
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग | 007a
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे || 007c
तत्तु दास्यामि यत्कार्यमिदं सम्पादयिष्यति | 008a
अभिगम्य हताशो हि निवृत्तो दहते कुलम् || 008c
नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते | 009a
यथाशानाशनं लोके देहि नास्तीति वा वचः || 009c
हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः | 010a
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् || 010c
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम | 011a
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी || 011c
सदा देवमनुष्याणामसुराणां च गालव | 012a
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् || 012c
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् | 013a
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते || 013c
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् | 014a
अहं दौहित्रवान्स्यां वै वर एष मम प्रभो || 014c
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा | 015a
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया || 015c
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः | 016a
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् || 016c
गते पतगराजे तु गालवः सह कन्यया | 017a
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् || 017c
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् | 018a
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् || 018c
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् | 019a
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् || 019c
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् | 020a
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी || 020c
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् | 021a
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् || 021c