नारद उवाच || 001
अथाह गालवं दीनं सुपर्णः पततां वरः | 001a
निर्मितं वह्निना भूमौ वायुना वैधितं तथा | 001c
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते || 001e
धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् | 002a
तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् || 002c
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा | 003a
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् || 003c
अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च | 004a
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ || 004c
ॠते च धनमश्वानां नावाप्तिर्विद्यते तव | 005a
अर्थं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् | 005c
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ || 005e
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा | 006a
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि || 006c
ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः | 007a
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् || 007c
विभवश्चास्य सुमहानासीद्धनपतेरिव | 008a
एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् || 008c
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् | 009a
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ || 009c
प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् | 010a
पृष्टश्चागमने हेतुमुवाच विनतासुतः || 010c
अयं मे नाहुष सखा गालवस्तपसो निधिः | 011a
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप || 011c
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः | 012a
तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् || 012c
असकृत्तेन चोक्तेन किञ्चिदागतमन्युना | 013a
अयमुक्तः प्रयच्छेति जानता विभवं लघु || 013c
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् | 014a
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् || 014c
गुर्वर्थो दीयतामेष यदि गालव मन्यसे | 015a
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः || 015c
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः | 016a
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः || 016c
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः | 017a
कृत्वापवर्गं गुरवे चरिष्यति महत्तपः || 017c
तपसः संविभागेन भवन्तमपि योक्ष्यते | 018a
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति || 018c
यावन्ति रोमाणि हये भवन्ति हि नरेश्वर | 019a
तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते || 019c
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् | 020a
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् || 020c