नारद उवाच || 001
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ | 001a
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् || 001c
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् | 002a
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः || 002c
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् | 003a
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ || 003c
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया | 004a
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः || 004c
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः | 005a
गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत || 005c
किमिदं भवता प्राप्तमिहागमनजं फलम् | 006a
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति || 006c
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् | 007a
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति || 007c
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज | 008a
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः || 008c
यत्र देवो महादेवो यत्र विष्णुः सनातनः | 009a
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति || 009c
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया | 010a
मयैतन्नाम प्रध्यातं मनसा शोचता किल || 010c
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् | 011a
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि || 011c
सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ | 012a
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् || 012c
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् | 013a
लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् || 013c
हीनयालक्षणैः सर्वैस्तथानिन्दितया मया | 014a
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा || 014c
आचाराल्लभते धर्ममाचाराल्लभते धनम् | 015a
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् || 015c
तदायुष्मन्खगपते यथेष्टं गम्यतामितः | 016a
न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् || 016c
भवितासि यथापूर्वं बलवीर्यसमन्वितः | 017a
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ || 017c
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् | 018a
नैव चासादयामास तथारूपांस्तुरङ्गमान् || 018c
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् | 019a
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ || 019c
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज | 020a
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् || 020c
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् | 021a
यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् || 021c
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् | 022a
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् || 022c
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव | 023a
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् || 023c