सुपर्ण उवाच || 001
यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते | 001a
तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः || 001c
उत्तरस्य हिरण्यस्य परिवापस्य गालव | 002a
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः || 002c
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ | 003a
नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः || 003c
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः | 004a
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः || 004c
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः | 005a
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत || 005c
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् | 006a
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम || 006c
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया | 007a
अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः || 007c
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव | 008a
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः || 008c
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः | 009a
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ || 009c
अत्र सौगन्धिकवनं नैर्ॠतैरभिरक्ष्यते | 010a
शाड्वलं कदलीस्कन्धमत्र सन्तानका नगाः || 010c
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् | 011a
विमानान्यनुरूपाणि कामभोग्यानि गालव || 011c
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा | 012a
अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः || 012c
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः | 013a
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः || 013c
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः | 014a
धामा नाम महात्मानो मुनयः सत्यवादिनः || 014c
न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् | 015a
परिवर्तसहस्राणि कामभोग्यानि गालव || 015c
यथा यथा प्रविशति तस्मात्परतरं नरः | 016a
तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव || 016c
न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ | 017a
ॠते नारायणं देवं नरं वा जिष्णुमव्ययम् || 017c
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् | 018a
अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश || 018c
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् | 019a
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् || 019c
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम | 020a
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः || 020c
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः | 021a
साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः || 021c
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् | 022a
वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः || 022c
अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ | 023a
कस्य कार्यं किमिति वै परिक्रोशन्ति गालव || 023c
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा | 024a
उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा || 024c
एता विस्तरशस्तात तव सङ्कीर्तिता दिशः | 025a
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि || 025c
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः | 026a
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज || 026c