सुपर्ण उवाच || 001
इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः | 001a
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च || 001c
अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् | 002a
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम || 002c
यादसामत्र राज्येन सलिलस्य च गुप्तये | 003a
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् || 003c
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् | 004a
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा || 004c
अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा | 005a
निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज || 005c
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः | 006a
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति || 006c
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये | 007a
जायते जीवलोकस्य हर्तुमर्धमिवायुषः || 007c
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् | 008a
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः || 008c
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् | 009a
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते || 009c
अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च | 010a
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः || 010c
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते | 011a
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः || 011c
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः | 012a
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः || 012c
अत्र ध्वजवती नाम कुमारी हरिमेधसः | 013a
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् || 013c
अत्र वायुस्तथा वह्निरापः खं चैव गालव | 014a
आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति | 014c
अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः || 014e
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् | 015a
अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना | 015c
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः || 015e
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः | 016a
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः || 016c
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् | 017a
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् || 017c
अत्रानलसखस्यापि पवनस्य निवेशनम् | 018a
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् || 018c
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः | 019a
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम || 019c