सुपर्ण उवाच || 001
इयं विवस्वता पूर्वं श्रौतेन विधिना किल | 001a
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् || 001c
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः | 002a
अत्रोष्मपानां देवानां निवासः श्रूयते द्विज || 002c
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते | 003a
इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम् || 003c
एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज | 004a
त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः || 004c
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा | 005a
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः || 005c
अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते | 006a
गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः || 006c
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते | 007a
वृता त्वनवबोधेन सुखं तेन न गम्यते || 007c
नैर्ॠतानां सहस्राणि बहून्यत्र द्विजर्षभ | 008a
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः || 008c
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च | 009a
गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज || 009c
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः | 010a
गतदारो गतामात्यो गतराज्यो वनं गतः || 010c
अत्र सावर्णिना चैव यवक्रीतात्मजेन च | 011a
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते || 011c
अत्र राक्षसराजेन पौलस्त्येन महात्मना | 012a
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता || 012c
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् | 013a
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा || 013c
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव | 014a
अत्र वैतरणी नाम नदी वितरणैर्वृता | 014c
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते || 014e
अत्रावृत्तो दिनकरः क्षरते सुरसं पयः | 015a
काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः || 015c
अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् | 016a
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ || 016c
अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः | 017a
विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः || 017c
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः | 018a
अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् || 018c
अत्र भोगवती नाम पुरी वासुकिपालिता | 019a
तक्षकेण च नागेन तथैवैरावतेन च || 019c
अत्र निर्याणकालेषु तमः सम्प्राप्यते महत् | 020a
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना || 020c
एष तस्यापि ते मार्गः परितापस्य गालव | 021a
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम || 021c