नारद उवाच || 001
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता | 001a
नास्ते न शेते नाहारं कुरुते गालवस्तदा || 001c
त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः | 002a
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना || 002c
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कुतः | 003a
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम || 003c
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे | 004a
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे || 004c
अहं पारं समुद्रस्य पृथिव्या वा परं परात् | 005a
गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे || 005c
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः | 006a
ऋणं धारयमाणस्य कुतः सुखमनीहया || 006c
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् | 007a
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् || 007c
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः | 008a
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति || 008c
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः | 009a
नानृतस्याधिपत्यं च कुत एव गतिः शुभा || 009c
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् | 010a
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः || 010c
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् | 011a
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् || 011c
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च | 012a
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् | 012c
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् || 012e
अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् | 013a
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे || 013c
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् | 014a
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् || 014c
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् | 015a
प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् || 015c
एवमुक्ते सखा तस्य गरुडो विनतात्मजः | 016a
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया || 016c
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् | 017a
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति || 017c
विभवश्चास्ति मे विप्र वासवावरजो द्विज | 018a
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे || 018c
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् | 019a
देशं पारं पृथिव्या वा गच्छ गालव माचिरम् || 019c