जनमेजय उवाच || 001
अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् | 001a
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् || 001c
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् | 002a
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् || 002c
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः | 003a
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः || 003c
वैशम्पायन उवाच || 004
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् | 004a
उक्तं बहुविधं चैव नारदेनापि तच्छृणु || 004c
नारद उवाच || 005
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् | 005a
तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति || 005c
श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन | 006a
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः || 006c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | 007a
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः || 007c
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा | 008a
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः || 008c
सप्तर्षीणामन्यतमं वेषमास्थाय भारत | 009a
बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह || 009c
विश्वामित्रोऽथ सम्भ्रान्तः श्रपयामास वै चरुम् | 010a
परमान्नस्य यत्नेन न च स प्रत्यपालयत् || 010c
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः | 011a
अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् || 011c
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ | 012a
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः || 012c
भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् | 013a
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः || 013c
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः | 014a
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया || 014c
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् | 015a
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया || 015c
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा | 016a
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता || 016c
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् | 017a
भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः || 017c
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः | 018a
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् || 018c
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः | 019a
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् || 019c
अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव || 019e
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् | 020a
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् || 020c
दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि | 021a
दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् || 021c
दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते | 022a
स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते | 022c
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति || 022e
जानमानस्तु भगवाञ्जितः शुश्रूषणेन च | 023a
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् || 023c
असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः | 024a
किं ददानीति बहुशो गालवः प्रत्यभाषत || 024c
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः | 025a
किञ्चिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् || 025c
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे | 026a
हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् || 026c