कण्व उवाच || 001
गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः | 001a
आयुःप्रदानं शक्रेण कृतं नागस्य भारत || 001c
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः | 002a
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् || 002c
गरुड उवाच || 003
भगवन्किमवज्ञानात्क्षुधां प्रति भये मम | 003a
कामकारवरं दत्त्वा पुनश्चलितवानसि || 003c
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे | 004a
आहारो विहितो धात्रा किमर्थं वार्यते त्वया || 004c
वृतश्चैष महानागः स्थापितः समयश्च मे | 005a
अनेन च मया देव भर्तव्यः प्रसवो महान् || 005c
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे | 006a
क्रीडसे कामकारेण देवराज यथेच्छकम् || 006c
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम | 007a
ये च भृत्या मम गृहे प्रीतिमान्भव वासव || 007c
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् | 008a
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः || 008c
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम | 009a
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् || 009c
ममापि दक्षस्य सुता जननी कश्यपः पिता | 010a
अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा || 010c
असह्यं सर्वभूतानां ममापि विपुलं बलम् | 011a
मयापि सुमहत्कर्म कृतं दैतेयविग्रहे || 011c
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः | 012a
प्रसभः कालकाक्षश्च मयापि दितिजा हताः || 012c
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् | 013a
वहामि चैवानुजं ते तेन मामवमन्यसे || 013c
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः | 014a
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् || 014c
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः | 015a
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव || 015c
अदित्यां य इमे जाता बलविक्रमशालिनः | 016a
त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः || 016c
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः | 017a
विमृश त्वं शनैस्तात को न्वत्र बलवानिति || 017c
कण्व उवाच || 018
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् | 018a
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् || 018c
गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् | 019a
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज || 019c
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे | 020a
अहमेवात्मनात्मानं वहामि त्वां च धारये || 020c
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह | 021a
यद्येनं धारयस्येकं सफलं ते विकत्थितम् || 021c
ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् | 022a
निपपात स भारार्तो विह्वलो नष्टचेतनः || 022c
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह | 023a
एकस्या देहशाखायास्तावद्भारममन्यत || 023c
न त्वेनं पीडयामास बलेन बलवत्तरः | 024a
ततो हि जीवितं तस्य न व्यनीनशदच्युतः || 024c
विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः | 025a
मुमोच पत्राणि तदा गुरुभारप्रपीडितः || 025c
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः | 026a
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् || 026c
भगवल्ँलोकसारस्य सदृशेन वपुष्मता | 027a
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले || 027c
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः || 028a
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः || 028c
न विज्ञातं बलं देव मया ते परमं विभो | 029a
तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः || 029c
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः | 030a
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह || 030c
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे | 031a
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक || 031c
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः | 032a
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे || 032c
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ | 033a
एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् || 033c
तदलं ते विरोधेन शमं गच्छ नृपात्मज | 034a
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि || 034c
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः | 035a
माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः || 035c
वैशम्पायन उवाच || 036
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः | 036a
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा || 036c
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः | 037a
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् || 037c
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः | 038a
तथा महर्षे वर्तामि किं प्रलापः करिष्यति || 038c