नारद उवाच || 001
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् | 001a
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली || 001c
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च | 002a
अल्पान्तरप्रभावश्च वासवेन रणे रणे || 002c
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् | 003a
देवासुरेषु युद्धेषु मनसैव नियच्छति || 003c
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः | 004a
अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत || 004c
अस्य कन्या वरारोहा रूपेणासदृशी भुवि | 005a
सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता || 005c
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते | 006a
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः || 006c
यदि ते रोचते सौम्य भुजगोत्तम माचिरम् | 007a
क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे || 007c
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः | 008a
कुले तव तथैवास्तु गुणकेशी सुमध्यमा || 008c
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु | 009a
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव || 009c
पितृहीनमपि ह्येनं गुणतो वरयामहे | 010a
बहुमानाच्च भवतस्तथैवैरावतस्य च | 010c
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः || 010e
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः | 011a
मातलेस्तस्य सम्मानं कर्तुमर्हो भवानपि || 011c
कण्व उवाच || 012
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः | 012a
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते || 012c
न मे नैतद्बहुमतं देवर्षे वचनं तव | 013a
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् || 013c
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने | 014a
अस्य देहकरस्तात मम पुत्रो महाद्युते | 014c
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् || 014e
पुनरेव च तेनोक्तं वैनतेयेन गच्छता | 015a
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो || 015c
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् | 016a
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै || 016c
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया | 017a
जामातृभावेन वृतः सुमुखस्तव पुत्रजः || 017c
सोऽयं मया च सहितो नारदेन च पन्नगः | 018a
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् || 018c
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः | 019a
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम || 019c
सुमुखश्च मया सार्धं देवेशमभिगच्छतु | 020a
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम || 020c
ततस्ते सुमुखं गृह्य सर्व एव महौजसः | 021a
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् || 021c
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः | 022a
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति || 022c
ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम् | 023a
अमृतं दीयतामस्मै क्रियताममरैः समः || 023c
मातलिर्नारदश्चैव सुमुखश्चैव वासव | 024a
लभन्तां भवतः कामात्काममेतं यथेप्सितम् || 024c
पुरन्दरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम् | 025a
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति || 025c
विष्णुरुवाच || 026
ईशस्त्वमसि लोकानां चराणामचराश्च ये | 026a
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो || 026c
कण्व उवाच || 027
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् | 027a
न त्वेनममृतप्राशं चकार बलवृत्रहा || 027c
लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह | 028a
कृतदारो यथाकामं जगाम च गृहान्प्रति || 028c
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ | 029a
प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् || 029c