नारद उवाच || 001
इयं भोगवती नाम पुरी वासुकिपालिता | 001a
यादृशी देवराजस्य पुरीवर्यामरावती || 001c
एष शेषः स्थितो नागो येनेयं धार्यते सदा | 002a
तपसा लोकमुख्येन प्रभावमहता मही || 002c
श्वेतोच्चयनिभाकारो नानाविधविभूषणः | 003a
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः || 003c
इह नानाविधाकारा नानाविधविभूषणाः | 004a
सुरसायाः सुता नागा निवसन्ति गतव्यथाः || 004c
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः | 005a
सहस्रसङ्ख्या बलिनः सर्वे रौद्राः स्वभावतः || 005c
सहस्रशिरसः केचित्केचित्पञ्चशताननाः | 006a
शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च || 006c
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा | 007a
महाभोगा महाकायाः पर्वताभोगभोगिनः || 007c
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च | 008a
नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु || 008c
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ | 009a
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ || 009c
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः | 010a
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा || 010c
आर्यको नन्दकश्चैव तथा कलशपोतकौ | 011a
कैलासकः पिञ्जरको नागश्चैरावतस्तथा || 011c
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ | 012a
आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा || 012c
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः | 013a
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः || 013c
करवीरः पीठरकः संवृत्तो वृत्त एव च | 014a
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः || 014c
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः | 015a
कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा || 015c
विरजा धारणश्चैव सुबाहुर्मुखरो जयः | 016a
बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा || 016c
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः | 017a
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः || 017c
कण्व उवाच || 018
मातलिस्त्वेकमव्यग्रः सततं सन्निरीक्ष्य वै | 018a
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् || 018c
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च | 019a
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः || 019c
कः पिता जननी चास्य कतमस्यैष भोगिनः | 020a
वंशस्य कस्यैष महान्केतुभूत इव स्थितः || 020c
प्रणिधानेन धैर्येण रूपेण वयसा च मे | 021a
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः || 021c
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् | 022a
निवेदयामास तदा माहात्म्यं जन्म कर्म च || 022c
ऐरावतकुले जातः सुमुखो नाम नागराट् | 023a
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च || 023c
एतस्य हि पिता नागश्चिकुरो नाम मातले | 024a
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः || 024c
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः | 025a
एष मे रुचितस्तात जामाता भुजगोत्तमः || 025c
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै | 026a
अस्य नागपतेर्दातुं प्रियां दुहितरं मुने || 026c