नारद उवाच || 001
इदं रसातलं नाम सप्तमं पृथिवीतलम् | 001a
यत्रास्ते सुरभिर्माता गवाममृतसम्भवा || 001c
क्षरन्ती सततं क्षीरं पृथिवीसारसम्भवम् | 002a
षण्णां रसानां सारेण रसमेकमनुत्तमम् || 002c
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा | 003a
पितामहस्य वदनादुदतिष्ठदनिन्दिता || 003c
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले | 004a
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् || 004c
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् | 005a
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः || 005c
फेनपा नाम नाम्ना ते फेनाहाराश्च मातले | 006a
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः || 006c
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले | 007a
निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः || 007c
पूर्वां दिशं धारयते सुरूपा नाम सौरभी | 008a
दक्षिणां हंसका नाम धारयत्यपरां दिशम् || 008c
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया | 009a
महानुभावया नित्यं मातले विश्वरूपया || 009c
सर्वकामदुघा नाम धेनुर्धारयते दिशम् | 010a
उत्तरां मातले धर्म्यां तथैलविलसञ्ज्ञिताम् || 010c
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे | 011a
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः || 011c
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले | 012a
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् || 012c
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् | 013a
अमृतं चामृताशेषु सुरभिः क्षरते पयः || 013c
अत्र गाथा पुरा गीता रसातलनिवासिभिः | 014a
पौराणी श्रूयते लोके गीयते या मनीषिभिः || 014c
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे | 015a
परिवासः सुखस्तादृग्रसातलतले यथा || 015c