नारद उवाच || 001
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् | 001a
विक्रमे गमने भारे नैषामस्ति परिश्रमः || 001c
वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् | 002a
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा || 002c
सुरूपपक्षिराजेन सुबलेन च मातले | 003a
वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः || 003c
पक्षिराजाभिजात्यानां सहस्राणि शतानि च | 004a
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः || 004c
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः | 005a
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत || 005c
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः | 006a
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै || 006c
नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु | 007a
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् || 007c
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् | 008a
हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा || 008c
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः | 009a
अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली || 009c
काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः | 010a
वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा || 010c
त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा | 011a
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः || 011c
सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः | 012a
मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः || 012c
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः | 013a
विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा || 013c
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च | 014a
मलयो मातरिश्वा च निशाकरदिवाकरौ || 014c
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः | 015a
प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते || 015c
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले | 016a
तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे || 016c