नारद उवाच || 001
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् | 001a
दैत्यानां दानवानां च मायाशतविचारिणाम् || 001c
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा | 002a
मयेन मनसा सृष्टं पातालतलमाश्रितम् || 002c
अत्र मायासहस्राणि विकुर्वाणा महौजसः | 003a
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा || 003c
नैते शक्रेण नान्येन वरुणेन यमेन वा | 004a
शक्यन्ते वशमानेतुं तथैव धनदेन च || 004c
असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः | 005a
नैॠृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये || 005c
दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः | 006a
मायावीर्योपसम्पन्ना निवसन्त्यात्मरक्षिणः || 006c
निवातकवचा नाम दानवा युद्धदुर्मदाः | 007a
जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् || 007c
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः | 008a
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः || 008c
पश्य वेश्मानि रौक्माणि मातले राजतानि च | 009a
कर्मणा विधियुक्तेन युक्तान्युपगतानि च || 009c
वैडूर्यहरितानीव प्रवालरुचिराणि च | 010a
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च || 010c
पार्थिवानीव चाभान्ति पुनर्नगमयानि च | 011a
शैलानीव च दृश्यन्ते तारकाणीव चाप्युत || 011c
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च | 012a
मणिजालविचित्राणि प्रांशूनि निबिडानि च || 012c
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा | 013a
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च || 013c
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत | 014a
रत्नवन्ति महार्हाणि भाजनान्यासनानि च || 014c
जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् | 015a
कामपुष्पफलांश्चैव पादपान्कामचारिणः || 015c
मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् | 016a
अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे || 016c
कण्व उवाच || 017
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् | 017a
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् || 017c
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः | 018a
अरिपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् || 018c
अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् | 019a
जानामि तु तथात्मानं दित्सात्मकमलं यथा || 019c