001 कण्व उवाच || 001a मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा | 001c वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया || 002a नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः | 002c स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः || 003a मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता | 003c यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति || 004a तमुवाचाथ स मुनिर्गच्छावः सहिताविति | 004c सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः || 005a अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् | 005c दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले || 006a अवगाह्य ततो भूमिमुभौ मातलिनारदौ | 006c ददृशाते महात्मानौ लोकपालमपां पतिम् || 007a तत्र देवर्षिसदृशीं पूजां प्राप स नारदः | 007c महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत || 008a तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह | 008c वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः || 009a नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् | 009c जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः || 010 नारद उवाच || 010a दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः | 010c पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् || 011a एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः | 011c एष तं शीलवृत्तेन शौचेन च विशिष्यते || 012a एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः | 012c रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः || 013a ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् | 013c आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः || 014a भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् | 014c यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे || 015a एतानि हृतराज्यानां दैतेयानां स्म मातले | 015c दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत || 016a अक्षयाणि किलैतानि विवर्तन्ते स्म मातले | 016c अनुभावप्रयुक्तानि सुरैरवजितानि ह || 017a अत्र राक्षसजात्यश्च भूतजात्यश्च मातले | 017c दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः || 018a अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे | 018c वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता || 019a एष गाण्डीमयश्चापो लोकसंहारसम्भृतः | 019c रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः || 020a एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् | 020c सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवम् || 021a अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु | 021c सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना || 022a एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् | 022c पुत्राः सलिलराजस्य धारयन्ति महोदयम् || 023a एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् | 023c सर्वतः सलिलं शीतं जीमूत इव वर्षति || 024a एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् | 024c तमसा मूर्छितं याति येन नार्छति दर्शनम् || 025a बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले | 025c तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ||