वैशम्पायन उवाच || 001
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना | 001a
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः || 001c
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् | 002a
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः || 002c
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु | 003a
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि || 003c
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः | 004a
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे || 004c
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् | 005a
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् || 005c
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् | 006a
ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः || 006c
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि | 007a
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् || 007c
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् | 008a
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् || 008c
तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः | 009a
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुन || 009c
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् | 010a
अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा || 010c
तपस्विनो महात्मानो वेदव्रतसमन्विताः | 011a
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः || 011c
अनेकजननं सख्यं ययोः पुरुषसिंहयोः | 012a
तयोस्त्वं न समो राजन्भवितासि कदाचन || 012c
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् | 013a
क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ || 013c
ब्राह्मणा ऊचुः || 014
नरो नारायणश्चैव तापसाविति नः श्रुतम् | 014a
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव || 014c
श्रूयते तौ महात्मानौ नरनारायणावुभौ | 015a
तपो घोरमनिर्देश्यं तप्येते गन्धमादने || 015c
राम उवाच || 016
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् | 016a
अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ || 016c
स गत्वा विषमं घोरं पर्वतं गन्धमादनम् | 017a
मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ || 017c
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ | 018a
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ | 018c
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् || 018e
तमर्चित्वा मूलफलैरासनेनोदकेन च | 019a
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति || 019c
दम्भोद्भव उवाच || 020
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः | 020a
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् | 020c
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति || 020e
नरनारायणावूचतुः || 021
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम | 021a
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः | 021c
अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ || 021e
राम उवाच || 022
उच्यमानस्तथापि स्म भूय एवाभ्यभाषत | 022a
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत | 022c
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ || 022e
ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव | 023a
अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय || 023c
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् | 024a
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् || 024c
दम्भोद्भव उवाच || 025
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे | 025a
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः || 025c
राम उवाच || 026
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् | 026a
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः || 026c
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः | 027a
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् || 027c
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः | 028a
अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत् || 028c
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया | 029a
निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् || 029c
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् | 030a
पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् || 030c
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् | 031a
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः || 031c
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन | 032a
अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् || 032c
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् | 033a
दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव || 033c
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः | 034a
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् || 034c
ततो राजा तयोः पादावभिवाद्य महात्मनोः | 035a
प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् || 035c
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा | 036a
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् || 036c
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते | 037a
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् || 037c
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा | 038a
सन्तानं नर्तनं घोरमास्यमोदकमष्टमम् || 038c
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः | 039a
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः || 039c
स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः | 040a
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च || 040c
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः | 041a
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् || 041c
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ | 042a
विजानीहि महाराज प्रवीरौ पुरुषर्षभौ || 042c
यद्येतदेवं जानासि न च मामतिशङ्कसे | 043a
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः || 043c
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति | 044a
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः || 044c
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि | 045a
तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय || 045c