वैशम्पायन उवाच || 001
तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु | 001a
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः || 001c
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् | 002a
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः || 002c
कुरूणां पाण्डवानां च शमः स्यादिति भारत | 003a
अप्रयत्नेन वीराणामेतद्यतितुमागतः || 003c
राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः | 004a
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम || 004c
इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव | 005a
श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः || 005c
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत | 006a
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते || 006c
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति | 007a
त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् || 007c
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम | 008a
मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च || 008c
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः | 009a
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् || 009c
अशिष्टा गतमर्यादा लोभेन हृतचेतसः | 010a
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ || 010c
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता | 011a
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति || 011c
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत | 012a
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ || 012c
त्वय्यधीनः शमो राजन्मयि चैव विशां पते | 013a
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् || 013c
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः | 014a
हितं बलवदप्येषां तिष्ठतां तव शासने || 014c
तव चैव हितं राजन्पाण्डवानामथो हितम् | 015a
शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् || 015c
स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते | 016a
सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर || 016c
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः | 017a
न हि शक्यास्तथाभूता यत्नादपि नराधिप || 017c
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः | 018a
इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः || 018c
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः | 019a
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः || 019c
सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः | 020a
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा || 020c
सात्यकिश्च महातेजा युयुत्सुश्च महारथः | 021a
को नु तान्विपरीतात्मा युध्येत भरतर्षभ || 021c
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् | 022a
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः || 022c
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते | 023a
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप || 023c
स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा | 024a
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् || 024c
एतानेव पुरोधाय सत्कृत्य च यथा पुरा | 025a
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते || 025c
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत | 026a
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः || 026c
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप | 027a
यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप || 027c
संयुगे वै महाराज दृश्यते सुमहान्क्षयः | 028a
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि || 028c
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः | 029a
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ || 029c
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः | 030a
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् || 030c
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे | 031a
क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् || 031c
समवेताः पृथिव्यां हि राजानो राजसत्तम | 032a
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः || 032c
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः | 033a
त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन || 033c
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः | 034a
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् || 034c
शिवेनेमे भूमिपालाः समागम्य परस्परम् | 035a
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् || 035c
सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ | 036a
अमर्षांश्च निराकृत्य वैराणि च परन्तप || 036c
हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये | 037a
तदेव ते भवत्वद्य शश्वच्च भरतर्षभ || 037c
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः | 038a
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ || 038c
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः| 039a
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ || 039c
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च | 040a
भवतः शासनाद्दुःखमनुभूतं सहानुगैः || 040c
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः | 041a
त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् || 041c
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः | 042a
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः || 042c
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ | 043a
नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि || 043c
त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि | 044a
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे || 044c
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् | 045a
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत || 045c
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः | 046a
संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि || 046c
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ | 047a
धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् || 047c
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च | 048a
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः || 048c
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते | 049a
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः | 049c
धर्म एतानारुजति यथा नद्यनुकूलजान् || 049e
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते | 050a
ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ || 050c
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर | 051a
ब्रुवन्तु वा महीपालाः सभायां ये समासते | 051c
धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् || 051e
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ | 052a
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः || 052c
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् | 053a
ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप || 053c
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा | 054a
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप || 054c
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः | 055a
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः || 055c
स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् | 056a
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत || 056c
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता | 057a
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः || 057c
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम् | 058a
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः || 058c
अहं तु तव तेषां च श्रेय इच्छामि भारत | 059a
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः || 059c
अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः | 060a
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते || 060c
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः | 061a
यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप || 061c
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् | 062a
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः || 062c