वैशम्पायन उवाच || 001
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा | 001a
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी || 001c
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः | 002a
शृण्वतो विविधा वाचो विदुरस्य महात्मनः || 002c
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः | 003a
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी || 003c
ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः | 004a
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् || 004c
तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् | 005a
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः || 005c
कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः | 006a
तत आदित्यमुद्यन्तमुपातिष्ठत माधवः || 006c
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः | 007a
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् || 007c
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् | 008a
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् || 008c
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः | 009a
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना || 009c
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः | 010a
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः || 010c
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् | 011a
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा || 011c
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः | 012a
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् || 012c
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः | 013a
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् || 013c
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः | 014a
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः || 014c
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् | 015a
सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् || 015c
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः | 016a
द्वितीयेन रथेनैनमन्वयातां परन्तपम् || 016c
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः | 017a
पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि || 017c
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः | 018a
गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः || 018c
सम्मृष्टसंसिक्तरजः प्रतिपेदे महापथम् | 019a
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् || 019c
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः | 020a
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च || 020c
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः | 021a
परिवार्य रथं शौरेरगच्छन्त परन्तपाः || 021c
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः | 022a
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः || 022c
गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः | 023a
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् || 023c
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् | 024a
सवृद्धबालं सस्त्रीकं रथ्यागतमरिन्दमम् || 024c
वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः | 025a
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत || 025c
सम्पूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः | 026a
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ || 026c
ततः सभां समासाद्य केशवस्यानुयायिनः | 027a
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् || 027c
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् | 028a
सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया || 028c
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः | 029a
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् || 029c
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् | 030a
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् || 030c
नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा | 031a
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः || 031c
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः | 032a
ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया || 032c
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ | 033a
वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः || 033c
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः | 034a
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् || 034c
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः | 035a
सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः || 035c
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे | 036a
तानि राजसहस्राणि समुत्तस्थुः समन्ततः || 036c
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् | 037a
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् || 037c
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः | 038a
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः || 038c
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् | 039a
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् || 039c
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः | 040a
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः || 040c
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् | 041a
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः || 041c
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप | 042a
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा || 042c
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् | 043a
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् || 043c
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् | 044a
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् || 044c
आसनान्यथ मृष्टानि महान्ति विपुलानि च | 045a
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः || 045c
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत | 046a
निषसादासने कृष्णो राजानश्च यथासनम् || 046c
दुःशासनः सात्यकये ददावासनमुत्तमम् | 047a
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे || 047c
अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ | 048a
एकासने महात्मानौ निषीदतुरमर्षणौ || 048c
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः | 049a
निषसादासने राजा सहपुत्रो विशां पते || 049c
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे | 050a
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् || 050c
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः | 051a
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् || 051c
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः | 052a
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः || 052c
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् | 053a
न तत्र कश्चित्किञ्चिद्धि व्याजहार पुमान्क्वचित् || 053c