भगवानुवाच || 001
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः | 001a
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् || 001c
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते | 002a
तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् || 002c
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् | 003a
शृणुष्वागमने हेतुं विदुरावहितो भव || 003c
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् | 004a
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् || 004c
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् | 005a
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् || 005c
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः | 006a
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः || 006c
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् | 007a
न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः || 007c
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया | 008a
कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् || 008c
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता | 009a
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः || 009c
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते | 010a
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः || 010c
आ केशग्रहणान्मित्रमकार्यात्सन्निवर्तयन् | 011a
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् || 011c
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् | 012a
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति || 012c
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च | 013a
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया || 013c
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि | 014a
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति || 014c
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते | 015a
सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः || 015c
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा | 016a
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् || 016c
उभयोः साधयन्नर्थमहमागत इत्युत | 017a
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् || 017c
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् 018a
न चेदादास्यते बालो दिष्टस्य वशमेष्यति 018c
अहापयन्पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम् 019a
पुण्यं च मे स्याच्चरितं महार्थं मुच्येरंश्च कुरवो मृत्युपाशात् | 019c
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् | 020a
अवेक्षेरन्धार्तराष्ट्राः समर्थां मां च प्राप्तं कुरवः पूजयेयुः | 020c
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः | 021a
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः || 021c
वैशम्पायन उवाच || 022
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा | 022a
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः || 022c